४.६.३

त्वया वियुक्ता रुदती लक्ष्मणेन च धीमता ।
अन्तरं प्रेप्सुना तेन हत्वा गृध्रं जटायुषम् ॥

पदच्छेदः

त्वयात्वद् (३.१)
वियुक्तावियुक्त (√वि-युज् + क्त, १.१)
रुदतीरुदत् (√रुद् + शतृ, १.१)
लक्ष्मणेनलक्ष्मण (३.१)
(अव्ययः)
धीमताधीमत् (३.१)
अन्तरंअन्तर (२.१)
प्रेप्सुनाप्रेप्सु (३.१)
तेनतद् (३.१)
हत्वाहत्वा (√हन् + क्त्वा)
गृध्रंगृध्र (२.१)
जटायुषम्जटायुष (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

त्व यावि यु क्तारु ती
क्ष्म णे धी ता
न्त रं प्रेप्सु ना ते
त्वा गृ ध्रं टायु षम्