४.६०.१०

तीव्रस्वेदश्च खेदश्च भयं चासीत्तदावयोः ।
समाविशत मोहश्च मोहान्मूर्छा च दारुणा ॥

अन्वयः

तदा then, आवयोः for both of us, तीव्रः intense, स्वेदश्च sweat, खेदश्च pain, भयं च and fear, आसीत् made its appearance, मोहः confusion, दारुणा terrific, मूर्छा च and stupor, समाविशति led to.

Summary

'Much sweat, pain and fear generated in us while we went on and up. This led to terrific confusion and stupor.

पदच्छेदः

तीव्रस्वेदश्चतीव्र–स्वेद (१.१)–च (अव्ययः)
खेदश्चखेद (१.१)–च (अव्ययः)
भयंभय (१.१)
चासीत् (अव्ययः)–आसीत् (√अस् लङ् प्र.पु. एक.)
तदावयोःतदा (अव्ययः)–मद् (६.२)
समाविशतसमाविशत (√समा-विश् लङ् प्र.पु. एक.)
मोहश्चमोह (१.१)–च (अव्ययः)
मोहान्मूर्छामोह (५.१)–मूर्छा (१.१)
(अव्ययः)
दारुणादारुण (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ती व्र स्वेश्च खेश्च
यं चा सीत्त दा योः
मावि मोश्च
मो हा न्मू र्छा दारु णा