४.६४.९

सुषेणस्तु हरिश्रेष्ठः प्रोक्तवान्कपिसत्तमान् ।
अशीतिं योजनानां तु प्लवेयं प्लवगर्षभाः ॥

पदच्छेदः

सुषेणस्तुसुषेण (१.१)–तु (अव्ययः)
हरिश्रेष्ठःहरि–श्रेष्ठ (१.१)
प्रोक्तवान्प्रोक्तवत् (√प्र-वच् + क्तवतु, १.१)
कपिसत्तमान्कपि–सत्तम (२.३)
अशीतिंअशीति (२.१)
योजनानांयोजन (६.३)
तुतु (अव्ययः)
प्लवेयंप्लवेयम् (√प्लु विधिलिङ् उ.पु. )
प्लवगर्षभाःप्लवग–ऋषभ (८.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

सु षेस्तु रि श्रे ष्ठः
प्रोक्त वान्कपित्त मान्
शी तिं यो ना नांतु
प्ल वे यंप्लर्ष भाः