४.६५.१०

कपित्वे चारुसर्वाङ्गी कदाचित्कामरूपिणी ।
मानुषं विग्रहं कृत्वा यौवनोत्तमशालिनी ॥

पदच्छेदः

कपित्वेकपि–त्व (७.१)
चारुसर्वाङ्गीचारु–सर्व–अङ्ग (१.१)
कदाचित्कदाचिद् (अव्ययः)
कामरूपिणीकामरूपिन् (१.१)
मानुषंमानुष (२.१)
विग्रहंविग्रह (२.१)
कृत्वाकृत्वा (√कृ + क्त्वा)
यौवनोत्तमशालिनीयौवन–उत्तम–शालिन् (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

पि त्वे चारु र्वा ङ्गी
दा चि त्का रूपि णी
मानु षं विग्र हं कृ त्वा
यौ नोत्त शालि नी