४.६५.८

अप्सराप्सरसां श्रेष्ठा विख्याता पुञ्जिकस्थला ।
अज्ञनेति परिख्याता पत्नी केसरिणो हरेः ॥

अन्वयः

पुञ्जिकस्थला Punjikasthala, अप्सरसाम् among apsarasas, श्रेष्ठा eminent, विख्याता famous, अञ्जनेति by name Anjana, परिख्याता wellknown as, अप्सरा: apsara, हरेः monkeys, केसरिणः Kesari, पत्नी wife.

पदच्छेदः

अप्सराप्सरसांअप्सरस् (१.१)–अप्सरस् (६.३)
श्रेष्ठाश्रेष्ठ (१.१)
विख्याताविख्यात (√वि-ख्या + क्त, १.१)
पुञ्जिकस्थलापुञ्जिकस्थला (१.१)
परिख्यातापरिख्यात (√परि-ख्या + क्त, १.१)
पत्नीपत्नी (१.१)
केसरिणोकेसरिन् (६.१)
हरेःहरि (६.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

प्स राप्स सां श्रे ष्ठा
वि ख्या ता पुञ्जिस्थ ला
ज्ञ नेति रि ख्या ता
त्नी केरि णो रेः