५.१.१४६

हनुमांस्तु ततः क्रुद्धस्त्रिंशद्योजनमायतः ।
चकार सुरसा वक्त्रं चत्वारिंशत्तथोच्छ्रितम् ॥

अन्वयः

ततः then, हनुमांस्तु Hanuman also, क्रुद्धः in anger, त्रिंशद्योजनम् thirty yojanas, आयतः wide, सुरसा Surasa, तथा like that, वक्त्रम् mouth, चत्वारिंशम् forty yojanas, उच्छ्रितम् high, चकार did, वीरः hero, हनुमान् Hanuman, पञ्चाशद्योजनोच्छ्रितः fifty yojanas high, बभूव became.

Summary

Provoked, Hanuman further stretched his body to thirty yojanas and Surasa on her own enlarged her mouth to forty yojanas. Then the great hero Hanuman stretched his body to fifty yojanas.

पदच्छेदः

हनुमांस्तुहनुमन्त् (१.१)–तु (अव्ययः)
ततःततस् (अव्ययः)
क्रुद्धस्त्रिंशद्योजनम्क्रुद्ध (√क्रुध् + क्त, १.१)–त्रिंशत्–योजन (२.१)
आयतःआयत (√आ-यम् + क्त, १.१)
चकारचकार (√कृ लिट् प्र.पु. एक.)
सुरसासुरसा (१.१)
वक्त्रंवक्त्र (२.१)
चत्वारिंशत्चत्वारिंशत् (१.१)
तथोच्छ्रितम्तथा (अव्ययः)–उच्छ्रित (√उत्-श्रि + क्त, २.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

नु मांस्तु तः क्रुद्ध
स्त्रिं द्यो मा तः
कासु सा क्त्रं
त्वा रिंत्त थोच्छ्रि तम्