५.१.१४५

तं दृष्ट्वा मेघसंकाशं दशयोजनमायतम् ।
चकार सुरसाप्यास्यं विंशद्योजनमायतम् ॥

अन्वयः

दशयोजनम् ten yojanas, आयतम् wide, मेघसङ्काशम् like a cloud, तम् him, दृष्ट्वा after seeing, सुरसा च Surasa too, आस्यम् her mouth, विंशद्योजनम् twenty yojanas, आयतम् wide, चकार stretched.

Summary

Seeing his body stretched to ten yojanas like a cloud, Surasa also widened her mouth to twenty yojanas.

पदच्छेदः

तंतद् (२.१)
दृष्ट्वादृष्ट्वा (√दृश् + क्त्वा)
मेघसंकाशंमेघ–संकाश (२.१)
दशयोजनम्दशन्–योजन (२.१)
आयतम्आयत (√आ-यम् + क्त, २.१)
चकारचकार (√कृ लिट् प्र.पु. एक.)
सुरसाप्यास्यंसुरसा (१.१)–अपि (अव्ययः)–आस्य (२.१)
विंशद्योजनम्विंशत्–योजन (२.१)
आयतम्आयत (√आ-यम् + क्त, २.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तं दृ ष्ट्वा मे सं का शं
यो मा तम्
कासु सा प्या स्यं
विं द्यो मा तम्