५.१.१४८

तथैव हनुमान्वीरः सप्ततिं योजनोच्छ्रितः ।
चकार सुरसा वक्त्रमशीतिं योजनायतम् ॥

पदच्छेदः

तथैवतथा (अव्ययः)–एव (अव्ययः)
हनुमान्हनुमन्त् (१.१)
वीरःवीर (१.१)
सप्ततिंसप्तति (२.१)
योजनोच्छ्रितःयोजन–उच्छ्रित (√उत्-श्रि + क्त, १.१)
चकारचकार (√कृ लिट् प्र.पु. एक.)
सुरसासुरसा (१.१)
वक्त्रम्वक्त्र (२.१)
अशीतिंअशीति (२.१)
योजनायतम्योजन–आयत (√आ-यम् + क्त, २.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

थैनु मा न्वी रः
प्त तिं यो नोच्छ्रि तः
कासु साक्त्र
शी तिं यो ना तम्