५.१.१४९

हनूमानचल प्रख्यो नवतिं योजनोच्छ्रितः ।
चकार सुरसा वक्त्रं शतयोजनमायतम् ॥

पदच्छेदः

हनूमान्हनुमन्त् (१.१)
अचलप्रख्योअचल–प्रख्या (१.१)
नवतिंनवति (२.१)
योजनोच्छ्रितःयोजन–उच्छ्रित (√उत्-श्रि + क्त, १.१)
चकारचकार (√कृ लिट् प्र.पु. एक.)
सुरसासुरसा (१.१)
वक्त्रंवक्त्र (२.१)
शतयोजनम्शत–योजन (२.१)
आयतम्आयत (√आ-यम् + क्त, २.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

नू मा प्र ख्यो
तिं यो नोच्छ्रि तः
कासु सा क्त्रं
यो मा तम्