५.१.१६२

महर्षिगणगन्धर्वनागयक्षसमाकुले ।
विविक्ते विमले विश्वे विश्वावसुनिषेविते ॥

पदच्छेदः

महर्षिगणगन्धर्वनागयक्षसमाकुलेमहत्–ऋषि–गण–गन्धर्व–नाग–यक्ष–समाकुल (७.१)
विविक्तेविविक्त (√वि-विच् + क्त, ७.१)
विमलेविमल (७.१)
विश्वेविश्व (७.१)
विश्वावसुनिषेवितेविश्वावसु–निषेवित (√नि-सेव् + क्त, ७.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

र्षि न्धर्व
नाक्ष माकु ले
वि वि क्तेवि ले वि श्वे
वि श्वासुनि षेवि ते