५.१.१६१

बहता हव्यमत्यन्तं सेविते चित्रभानुना ।
ग्रहनक्षत्रचन्द्रार्कतारागणविभूषिते ॥

पदच्छेदः

वहतावहत् (√वह् + शतृ, ३.१)
हव्यम्हव्य (२.१)
अत्यन्तंअत्यन्त (२.१)
सेवितेसेवित (√सेव् + क्त, ७.१)
चित्रभानुनाचित्रभानु (३.१)
ग्रहनक्षत्रचन्द्रार्कतारागणविभूषितेग्रह–नक्षत्र–चन्द्र–अर्क–तारा–गण–विभूषित (√वि-भूषय् + क्त, ७.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ताव्य त्य न्तं
सेवि ते चित्र भानु ना
ग्र क्षत्र न्द्रार्क
ता रावि भूषि ते