५.१.१६७

अद्य दीर्घस्य कालस्य भविष्याम्यहमाशिता ।
इदं हि मे महत्सत्त्वं चिरस्य वशमागतम् ॥

अन्वयः

चिरस्य after a long time, इदम् this, महत् great, सत्त्वम् being, मे my, वशम् fold, आगतम् has come, दीर्घस्य after a long, कालस्य time, अद्य today, अहम् I, आशिता satiated, भविष्यामि I will be.

M N Dutt

Today after a long lapse of time I shall have my fare. This mighty creature has after a long time come within my power.

पदच्छेदः

अद्यअद्य (अव्ययः)
दीर्घस्यदीर्घ (६.१)
कालस्यकाल (६.१)
भविष्याम्यहम्भविष्यामि (√भू लृट् उ.पु. )–मद् (१.१)
आशिताआशित (√आशय् + क्त, १.१)
इदंइदम् (१.१)
हिहि (अव्ययः)
मेमद् (६.१)
महत्महत् (१.१)
सत्त्वंसत्त्व (१.१)
चिरस्यचिर (६.१)
वशम्वश (२.१)
आगतम्आगत (√आ-गम् + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

द्य दी र्घस्य कास्य
वि ष्याम्य माशि ता
दंहि मे त्स त्त्वं
चिस्य मा तम्