५.१०.१५

भूमीगृहांश्चैत्यगृहान्गृहातिगृहकानपि ।
उत्पतन्निपतंश्चापि तिष्ठन्गच्छन्पुनः क्वचित् ॥

पदच्छेदः

भूमीगृहांश्भूमिगृह (२.३)
चैत्यगृहान्चैत्य–गृह (२.३)
गृहातिगृहकान्गृह–अतिगृहक (२.३)
अपिअपि (अव्ययः)
उत्पतन्निपतंश्चापिउत्पतत् (√उत्-पत् + शतृ, १.१)–निपतत् (√नि-पत् + शतृ, १.१)–च (अव्ययः)–अपि (अव्ययः)
तिष्ठन्तिष्ठत् (√स्था + शतृ, १.१)
गच्छन्गच्छत् (√गम् + शतृ, १.१)
पुनःपुनर् (अव्ययः)
क्वचित्क्वचिद् (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

भू मीगृ हां श्चैत्यगृ हा
न्गृ हातिगृ कापि
त्पन्नि तं श्चापि
ति ष्ठ न्ग च्छन्पु नःक्व चित्