५.११.६५

ब्रह्मा स्वयम्भूर्भगवान्देवाश्चैव दिशन्तु मे ।
सिद्धिमग्निश्च वायुश्च पुरुहूतश्च वज्रधृत् ॥

पदच्छेदः

ब्रह्माब्रह्मन् (१.१)
स्वयम्भूर्स्वयम्भु (१.१)
भगवान्भगवत् (१.१)
देवाश्चैवदेव (१.३)–च (अव्ययः)–एव (अव्ययः)
दिशन्तुदिशन्तु (√दिश् लोट् प्र.पु. बहु.)
मेमद् (६.१)
सिद्धिम्सिद्धि (२.१)
अग्निश्चअग्नि (१.१)–च (अव्ययः)
वायुश्चवायु (१.१)–च (अव्ययः)
पुरुहूतश्चपुरुहूत (१.१)–च (अव्ययः)
वज्रधृत्वज्र–धृत् (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ब्र ह्मास्व म्भूर्भ वा
न्दे वा श्चैदिन्तु मे
सिद्धि ग्निश्च वा युश्च
पुरु हूश्चज्र धृत्