५.१२.१

स मुहूर्तमिव ध्यात्वा मनसा चाधिगम्य ताम् ।
अवप्लुतो महातेजाः प्राकारं तस्य वेश्मनः ॥

अन्वयः

महातेजा mighty, सः that (Hanuman), मुहूर्तमिव for a short while, ध्यात्वे lost in thought, ताम् her, मनसा in the mind, अधिगम्य reached, तस्य वेश्मनः of that palace, प्राकारम् boundary, अवप्लुतः jumped.

M N Dutt

Having reflected for a while and mentally met with her, that highly energetic one leapt from the wall of Rāvana's mansion on to that (of the Asoka wood).

Summary

Mighty Hanuman lost in thought for a moment, jumped down (the harem) to the boundary wall of the palace.

पदच्छेदः

तद् (१.१)
मुहूर्तम्मुहूर्त (२.१)
इवइव (अव्ययः)
ध्यात्वाध्यात्वा (√ध्या + क्त्वा)
मनसामनस् (३.१)
चाधिगम्य (अव्ययः)–अधिगम्य (√अधि-गम् + ल्यप्)
ताम्तद् (२.१)
अवप्लुतोअवप्लुत (√अव-प्लु + क्त, १.१)
महातेजाःमहत्–तेजस् (१.१)
प्राकारंप्राकार (२.१)
तस्यतद् (६.१)
वेश्मनःवेश्मन् (६.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

मु हूर्तमि ध्या त्वा
सा चाधिम्य ताम्
प्लु तो हा ते जाः
प्रा का रंस्य वेश्म नः