५.१२.४९

तस्याश्चाप्यनुरूपेयमशोकवनिका शुभा ।
शुभा या पार्थिवेन्द्रस्य पत्नी रामस्य संमिता ॥

अन्वयः

या she, पार्थिवेन्द्रस्य of the lord of the world, रामस्य Rama's, सम्मता beloved, शुभा auspicious, पत्नी wife, तस्याः her, शुभा auspicious, इयम् this, अशोकवनिका this Ashoka grove, अनुरूपापि च and suitable place.

M N Dutt

Truly is this beautiful forest of Asoka the worthy abode of the beloved and chaste spouse of Rāma, the lord of men.

Summary

To the auspicious Sita,the beloved of Rama, the lord of the world, this Ashoka grove is a befitting place.

पदच्छेदः

तस्याश्चाप्यनुरूपेयम्तद् (६.१)–च (अव्ययः)–अपि (अव्ययः)–अनुरूप (१.१)–इदम् (१.१)
अशोकवनिकाअशोक–वनिका (१.१)
शुभाशुभ (१.१)
शुभाशुभ (१.१)
यायद् (१.१)
पार्थिवेन्द्रस्यपार्थिव–इन्द्र (६.१)
पत्नीपत्नी (१.१)
रामस्यराम (६.१)
संमितासंमित (√सम्-मा + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्या श्चाप्यनु रू पे
शोनि काशु भा
शु भा या पार्थि वे न्द्रस्य
त्नी रास्य संमि ता