५.१३.१७

मुष्णन्तमिव चक्षूंषि द्योतमानमिव श्रिया ।
विमलं प्रांशुभावत्वादुल्लिखन्तमिवाम्बरम् ॥

पदच्छेदः

मुष्णन्तम्मुष्णत् (√मुष् + शतृ, २.१)
इवइव (अव्ययः)
चक्षूंषिचक्षुस् (२.३)
द्योतमानम्द्योतमान (√द्युत् + शानच्, २.१)
इवइव (अव्ययः)
श्रियाश्री (३.१)
विमलंविमल (२.१)
प्रांशुभावत्वाद्प्रांशु–भाव–त्व (५.१)
उल्लिखन्तम्उल्लिखत् (√उत्-लिख् + शतृ, २.१)
इवाम्बरम्इव (अव्ययः)–अम्बर (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

मु ष्णन्तमि क्षूंषि
द्यो मामिश्रि या
वि लं प्रांशु भा त्वा
दुल्लिन्तमि वाम्ब रम्