५.१३.७

आमूलपुष्पनिचितैरशोकैः शोकनाशनैः ।
पुष्पभारातिभारैश्च स्पृशद्भिरिव मेदिनीम् ॥

पदच्छेदः

मूलपुष्पनिचितैर्मूल–पुष्प–निचित (√नि-चि + क्त, ३.३)
अशोकैःअशोक (३.३)
शोकनाशनैःशोक–नाशन (३.३)
पुष्पभारातिभारैश्चपुष्प–भार–अतिभार (३.३)–च (अव्ययः)
स्पृशद्भिर्स्पृशत् (√स्पृश् + शतृ, ३.३)
इवइव (अव्ययः)
मेदिनीम्मेदिनी (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

मू पुष्पनिचि तै
शो कैः शो ना नैः
पुष्प भा राति भा रैश्च
स्पृद्भिरि मेदि नीम्