५.१५.१६

कराला धूम्रकेशीश्च रक्षसीर्विकृताननाः ।
पिबन्तीः सततं पानं सदा मांससुराप्रियाः ॥

पदच्छेदः

करालाकराल (२.३)
धूम्रकेशीश्चधूम्र–केश (२.३)–च (अव्ययः)
राक्षसीर्राक्षसी (२.३)
विकृताननाःविकृत (√वि-कृ + क्त)–आनन (२.३)
पिबन्तीःपिबत् (√पा + शतृ, २.३)
सततंसततम् (अव्ययः)
पानंपान (२.१)
सदासदा (अव्ययः)
मांससुराप्रियाःमांस–सुरा–प्रिय (२.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

रा ला धूम्र के शीश्च
क्ष सीर्विकृ ता नाः
पि न्तीः तं पा नं
दा मांसु राप्रि याः