५.१५.१७

मांसशोणितदिग्धाङ्गीर्मांसशोणितभोजनाः ।
ता ददर्श कपिश्रेष्ठो रोमहर्षणदर्शनाः ॥

पदच्छेदः

मांसशोणितदिग्धाङ्गीर्मांस–शोणित–दिग्ध (√दिह् + क्त)–अङ्ग (२.३)
मांसशोणितभोजनाःमांस–शोणित–भोजन (२.३)
तातद् (२.३)
ददर्शददर्श (√दृश् लिट् प्र.पु. एक.)
कपिश्रेष्ठोकपि–श्रेष्ठ (१.१)
रोमहर्षणदर्शनाःरोमन्–हर्षण–दर्शन (२.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

मां शोणि दि ग्धा ङ्गी
र्मां शोणि भो नाः
तार्श पि श्रे ष्ठो
रोर्षर्श नाः