५.२६.७

दुःखं बतेदं मम दुःखिताया; मासौ चिरायाभिगमिष्यतो द्वौ ।
बद्धस्य वध्यस्य यथा निशान्ते; राजापराधादिव तस्करस्य ॥

अन्वयः

राजापराधात् due to offending the king, बद्धस्य captured, निशान्ते by daybreak, वध्यस्य for execution, तस्करस्य इव like that of a thief, दुःखितायाः of a sorrowful, मम to me, द्वौ two, मासौ months, चिराय is a long duration, अधिगमिष्यतः will be spent, इदम् this, दुःखम् grief, बत alas.

M N Dutt

Two months shall pass away in no time and I shall have to suffer the pain of death, overwhelmed with sorrow as I am, like to a thief, confined in stocks, at the command of the sovereign to receive death the next morning.

पदच्छेदः

दुःखंदुःख (१.१)
बतेदंबत (अव्ययः)–इदम् (१.१)
मममद् (६.१)
दुःखितायादुःखित (६.१)
मासौमास (१.२)
चिरायाभिगमिष्यतोचिर (४.१)–अभिगमिष्यतः (√अभि-गम् लृट् प्र.पु. द्वि.)
द्वौद्वि (१.२)
बद्धस्यबद्ध (√बन्ध् + क्त, ६.१)
वध्यस्यवध्य (√वध् + कृत्, ६.१)
यथायथा (अव्ययः)
निशान्तेनिशा–अन्त (७.१)
राजापराधाद्राजन्–अपराध (५.१)
इवइव (अव्ययः)
तस्करस्यतस्कर (६.१)

छन्दः

इन्द्रवज्रा [११: ततजगग]

छन्दोविश्लेषणम्

१०११
दुः खं ते दं दुःखि ता या
मा सौचि रा याभि मिष्य तो द्वौ
द्धस्य ध्यस्य थानि शा न्ते
रा जा रा धादिस्कस्य