५.३.१०

वैदूर्यतलसोपानैः स्फाटिकान्तरपांसुभिः ।
चारुसंजवनोपेतैः खमिवोत्पतितैः शुभैः ॥

पदच्छेदः

वैदूर्यतलसोपानैःवैडूर्य–तल–सोपान (३.३)
स्फाटिकान्तरपांसुभिःस्फाटिक–अन्तर–पांसु (३.३)
चारुसंजवनोपेतैःचारु–संजवन–उपेत (√उप-इ + क्त, ३.३)
खम् (२.१)
इवोत्पतितैःइव (अव्ययः)–उत्पतित (√उत्-पत् + क्त, ३.३)
शुभैःशुभ (३.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

वै दूर्य सो पा नैः
स्फाटि कान्त पांसु भिः
चारु सं नो पे तैः
मि वोत्पति तैःशु भैः