५.३.३

शारदाम्बुधरप्रख्यैर्भवनैरुपशोभिताम् ।
सागरोपमनिर्घोषां सागरानिलसेविताम् ॥

पदच्छेदः

शारदाम्बुधरप्रख्यैर्शारद–अम्बुधर–प्रख्या (३.३)
भवनैर्भवन (३.३)
उपशोभिताम्उपशोभित (√उप-शोभय् + क्त, २.१)
सागरोपमनिर्घोषांसागर–उपम–निर्घोष (२.१)
सागरानिलसेविताम्सागर–अनिल–सेवित (√सेव् + क्त, २.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

शा दाम्बु प्र ख्यै
र्भ नैरु शोभि ताम्
सा रो नि र्घो षां
सा रानि सेवि ताम्