५.३.४

सुपुष्टबलसंगुप्तां यथैव विटपावतीम् ।
चारुतोरणनिर्यूहां पाण्डुरद्वारतोरणाम् ॥

पदच्छेदः

सुपुष्टबलसंगुप्तांसु (अव्ययः)–पुष्ट (√पुष् + क्त)–बल–संगुप्त (√सम्-गुप् + क्त, २.१)
यथैवयथा (अव्ययः)–एव (अव्ययः)
विटपावतीम्विटपावत् (२.१)
चारुतोरणनिर्यूहांचारु–तोरण–निर्यूह (२.१)
पाण्डुरद्वारतोरणाम्पाण्डुर–द्वार–तोरण (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

सु पुष्ट सं गु प्तां
थैवि पा तीम्
चारु तो नि र्यू हां
पाण्डु द्वा तो णाम्