५.३.३५

त्रिविष्टपनिभं दिव्यं दिव्यनादविनादितम् ।
वाजिहेषितसंघुष्टं नादितं भूषणैस्तथा ॥

पदच्छेदः

त्रिविष्टपनिभंत्रिविष्टप–निभ (२.१)
दिव्यंदिव्य (२.१)
दिव्यनादविनादितम्दिव्य–नाद–विनादित (√वि-नादय् + क्त, २.१)
वाजिहेषितसंघुष्टंवाजिन्–हेषित–संघुष्ट (√सम्-घुष् + क्त, २.१)
नादितंनादित (√नादय् + क्त, २.१)
भूषणैस्तथाभूषण (३.३)–तथा (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

त्रि विष्टनि भं दि व्यं
दिव्य नावि नादि तम्
वाजि हेषि सं घु ष्टं
नादि तं भू णैस्त था