५.३.३७

भूषितं रुचिरद्वारं मत्तैश्च मृगपक्षिभिः ।
राक्षसाधिपतेर्गुप्तमाविवेश गृहं कपिः ॥

M N Dutt

The monkey entered the palace protected by the Rākṣasa chief, guarded by maddened beasts and birds, and thousands of gobbling endowed with exceeding great prowess.

पदच्छेदः

भूषितंभूषित (√भूषय् + क्त, २.१)
रुचिरद्वारंरुचिर–द्वार (२.१)
मत्तैश्चमत्त (√मद् + क्त, ३.३)–च (अव्ययः)
मृगपक्षिभिःमृग–पक्षिन् (३.३)
राक्षसाधिपतेर्राक्षस–अधिपति (६.१)
गुप्तम्गुप्त (√गुप् + क्त, २.१)
आविवेशआविवेश (√आ-विश् लिट् प्र.पु. एक.)
गृहंगृह (२.१)
कपिःकपि (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

भूषि तंरुचि द्वा रं
त्तैश्चमृक्षि भिः
राक्ष साधि ते र्गुप्त
मावि वेगृ हं पिः