५.४.१

ततः स मध्यं गतमंशुमन्तं; ज्योत्स्नावितानं महदुद्वमन्तम् ।
ददर्श धीमान्दिवि भानुमन्तं; गोष्ठे वृषं मत्तमिव भ्रमन्तम् ॥

अन्वयः

ततः then, धीमान् intelligent, सः that, मध्यं गतम् ascended to the centre (of the sky), अंशुमन्तम् luminous lord, महत् great, ज्योत्स्नावितानम् a canopy of moonlight, उद्वमन्तम् spreading, गोष्ठे in the stable, भ्रमन्तम् moving about, मत्तम् intoxicated, वृषमिव like a mighty bull, भानुमन्तम् like Sun, दिवि in the sky, ददर्श saw.

Summary

Then intelligent Hanuman observed the Moon in the central part of the sky spreading a canopy of his luminescence like the Sun, and looking like an intoxicated mighty (white) bull moving in a stable.

पदच्छेदः

ततःततस् (अव्ययः)
तद् (१.१)
मध्यंमध्य (२.१)
गतम्गत (√गम् + क्त, २.१)
अंशुमन्तंअंशुमन्त् (२.१)
ज्योत्स्नावितानंज्योत्स्ना–वितान (२.१)
महद्महत् (२.१)
उद्वमन्तम्उद्वमत् (√उत्-वम् + शतृ, २.१)
ददर्शददर्श (√दृश् लिट् प्र.पु. एक.)
धीमान्धीमत् (१.१)
दिविदिव् (७.१)
भानुमन्तंभानुमत् (२.१)
गोष्ठेगोष्ठ (७.१)
वृषंवृष (२.१)
मत्तम्मत्त (√मद् + क्त, २.१)
इवइव (अव्ययः)
भ्रमन्तम्भ्रमत् (√भ्रम् + शतृ, २.१)

छन्दः

उपजातिः [११]

छन्दोविश्लेषणम्

१०११
तः ध्यं मंशु न्तं
ज्यो त्स्नावि ता नं दुद्व न्तम्
र्श धी मान्दिवि भानु न्तं
गो ष्ठेवृ षंत्तमिभ्र न्तम्