५.३.५

भुजगाचरितां गुप्तां शुभां भोगवतीमिव ।
तां सविद्युद्घनाकीर्णां ज्योतिर्मार्गनिषेविताम् ॥

पदच्छेदः

भुजगाचरितांभुजग–आचरित (√आ-चर् + क्त, २.१)
गुप्तांगुप्त (√गुप् + क्त, २.१)
शुभांशुभ (२.१)
भोगवतीम्भोगवती (२.१)
इवइव (अव्ययः)
तांतद् (२.१)
सविद्युद्घनाकीर्णां (अव्ययः)–विद्युत्–घन–आकीर्ण (√आ-कृ + क्त, २.१)
ज्योतिर्मार्गनिषेविताम्ज्योतिस्–मार्ग–निषेवित (√नि-सेव् + क्त, २.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

भु गारि तां गु प्तां
शु भां भो तीमि
तां वि द्युद्घ ना की र्णां
ज्यो ति र्मार्गनि षेवि ताम्