५.३.७

किङ्किणीजालघोषाभिः पताकाभिरलंकृताम् ।
आसाद्य सहसा हृष्टः प्राकारमभिपेदिवान् ॥

पदच्छेदः

किङ्किणीजालघोषाभिःकिङ्किणी–जाल–घोष (३.३)
पताकाभिर्पताका (३.३)
अलंकृताम्अलंकृत (√अलम्-कृ + क्त, २.१)
आसाद्यआसाद्य (√आ-सादय् + ल्यप्)
सहसासहस् (३.१)
हृष्टःहृष्ट (√हृष् + क्त, १.१)
प्राकारम्प्राकार (२.१)
अभिपेदिवान्अभिपेदिवस् (√अभि-पद् + क्वसु, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

किङ्कि णी जा घो षा भिः
ता काभि लंकृ ताम्
साद्य सा हृ ष्टः
प्रा काभि पेदि वान्