५.३.८

विस्मयाविष्टहृदयः पुरीमालोक्य सर्वतः ।
जाम्बूनदमयैर्द्वारैर्वैदूर्यकृतवेदिकैः ॥

पदच्छेदः

विस्मयाविष्टहृदयःविस्मय–आविष्ट (√आ-विश् + क्त)–हृदय (१.१)
पुरीम्पुरी (२.१)
आलोक्यआलोक्य (√आ-लोकय् + ल्यप्)
सर्वतःसर्वतस् (अव्ययः)
जाम्बूनदमयैर्जाम्बूनद–मय (३.३)
द्वारैर्द्वार (३.३)
वैदूर्यकृतवेदिकैःवैडूर्य–कृत (√कृ + क्त)–वेदिका (३.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

विस्म या विष्टहृ यः
पु री मा लोक्यर्व तः
जा म्बू यै र्द्वा रै
र्वै दूर्यकृ वेदि कैः