५.३३.७३

कौरजो नाम वैदेहि गिरीणामुत्तमो गिरिः ।
ततो गच्छति गोकर्णं पर्वतं केसरी हरिः ॥

अन्वयः

वैदेहि Vaidehi, गिरीणाम् among the mountains, उत्तमः the best one, माल्यवान्नाम Malyavan, गिरिः mountain, ततः from there, केसरी Kesari, हरिः monkey, गोकर्णम् Gokarna, पर्वतम् mountain, गच्छति went.

Summary

"Oh Vaidehi there is a famous mountain called Malyavan. From there a monkey called Kesari went to mount Gokarna.

पदच्छेदः

कौरजोकौरज (१.१)
नामनाम (अव्ययः)
वैदेहिवैदेही (८.१)
गिरीणाम्गिरि (६.३)
उत्तमोउत्तम (१.१)
गिरिःगिरि (१.१)
ततोततस् (अव्ययः)
गच्छतिगच्छति (√गम् लट् प्र.पु. एक.)
गोकर्णंगोकर्ण (२.१)
पर्वतंपर्वत (२.१)
केसरीकेसरिन् (१.१)
हरिःहरि (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

कौ जो ना वै देहि
गि री णा मुत्त मोगि रिः
तोच्छति गो र्णं
र्व तं के री रिः