५.३३.७४

स च देवर्षिभिर्दृष्टः पिता मम महाकपिः ।
तीर्थे नदीपतेः पुण्ये शम्बसादनमुद्धरत् ॥

अन्वयः

देवर्षिभिः by the divine sages, दिष्टः predicted, मम my, पिता father, सः महाकपिः that great monkey, नदीपतेः of lord of rivers, ocean, पुण्ये holy, तीर्थे in a place, शम्बसादनम् Sambasadanam, उद्धरत् raised.

Summary

"He (Kesari) is said to be my father by the divine sages. He retrieved a piece of land in a holy spot of that sea shore and killed Sambasadana, a demon who was oppressing righteous people.

पदच्छेदः

तद् (१.१)
(अव्ययः)
देवर्षिभिर्देवर्षि (३.३)
दृष्टःदृष्ट (√दृश् + क्त, १.१)
पितापितृ (१.१)
मममद् (६.१)
महाकपिःमहत्–कपि (१.१)
तीर्थेतीर्थ (७.१)
नदीपतेःनदीपति (६.१)
पुण्येपुण्य (७.१)
शम्बसादनम्शम्ब–सादन (२.१)
उद्धरत्उद्धरत् (√उत्-हृ लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

देर्षि भि र्दृ ष्टः
पि ता हा पिः
ती र्थे दी तेः पु ण्ये
म्ब सा मुद्ध रत्