५.३६.१२

इदं श्रेष्ठमभिज्ञानं ब्रूयास्त्वं तु मम प्रियम् ।
शैलस्य चित्रकूटस्य पादे पूर्वोत्तरे तदा ॥

पदच्छेदः

इदंइदम् (२.१)
श्रेष्ठम्श्रेष्ठ (२.१)
अभिज्ञानंअभिज्ञान (२.१)
ब्रूयास्त्वंब्रूयाः (√ब्रू विधिलिङ् म.पु. )–त्वद् (१.१)
तुतु (अव्ययः)
मममद् (६.१)
प्रियम्प्रिय (२.१)
शैलस्यशैल (६.१)
चित्रकूटस्यचित्रकूट (६.१)
पादेपाद (७.१)
पूर्वोत्तरेपूर्व–उत्तर (७.१)
तदातदा (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

दं श्रेष्ठ भि ज्ञा नं
ब्रू या स्त्वंतुप्रि यम्
शैस्य चित्र कूस्य
पा दे पू र्वोत्त रे दा