५.३६.१४

तस्योपवनषण्डेषु नानापुष्पसुगन्धिषु ।
विहृत्य सलिलक्लिन्ना तवाङ्के समुपाविशम् ॥

पदच्छेदः

तस्योपवनषण्डेषुतद् (६.१)–उपवन–षण्ड (७.३)
नानापुष्पसुगन्धिषुनाना (अव्ययः)–पुष्प–सुगन्धि (७.३)
विहृत्यविहृत्य (√वि-हृ + ल्यप्)
सलिलक्लिन्नासलिल–क्लिन्न (√क्लिद् + क्त, १.१)
तवाङ्केत्वद् (६.१)–अङ्क (७.१)
समुपाविशम्समुपाविशम् (√समुप-विश् लङ् उ.पु. )

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्यो ण्डेषु
ना ना पुष्पसुन्धिषु
वि हृत्यलि क्लि न्ना
वा ङ्केमु पावि शम्