५.४३.४

तप्तकाञ्चनचित्राणि चापान्यमितविक्रमाः ।
विस्फारयन्तः संहृष्टास्तडिद्वन्त इवाम्बुदाः ॥

पदच्छेदः

तप्तकाञ्चनचित्राणितप्त (√तप् + क्त)–काञ्चन–चित्र (२.३)
चापान्यमितविक्रमाःचाप (२.३)–अमित–विक्रम (१.३)
विस्फारयन्तःविस्फारयत् (√वि-स्फारय् + शतृ, १.३)
संहृष्टास्तडिद्वन्तसंहृष्ट (√सम्-हृष् + क्त, १.३)–तडिद्वत् (१.३)
इवाम्बुदाःइव (अव्ययः)–अम्बुद (१.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

प्त काञ्च चि त्राणि
चा पान्यमि विक्र माः
वि स्फा न्तः सं हृ ष्टा
स्त डि द्वन्त वाम्बु दाः