५.४३.५

जनन्यस्तास्ततस्तेषां विदित्वा किंकरान्हतान् ।
बभूवुः शोकसंभ्रान्ताः सबान्धवसुहृज्जनाः ॥

अन्वयः

ततः then, तेषाम् their, सबान्धवसुहृज्जनाः with friends and relatives, जनन्यस्तु mothers, किंकरान् kinkaras, हतान् killed, विदित्वा having known, कसम्भ्रान्ताः were agitated with grief, बभूवुः became.

Summary

Their mothers and relatives and their friends were struck with grief when they learnt about the kinkaras killed.

पदच्छेदः

जनन्यस्तास्ततस्तेषांजननी (१.३)–तद् (१.३)–ततस् (अव्ययः)–तद् (६.३)
विदित्वाविदित्वा (√विद् + क्त्वा)
किंकरान्किंकर (२.३)
हतान्हत (√हन् + क्त, २.३)
बभूवुःबभूवुः (√भू लिट् प्र.पु. बहु.)
शोकसंभ्रान्ताःशोक–संभ्रान्त (√सम्-भ्रम् + क्त, १.३)
सबान्धवसुहृज्जनाः (अव्ययः)–बान्धव–सुहृद्–जन (१.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

न्य स्तास्त स्ते षां
वि दि त्वा किं रान्ह तान्
भू वुः शो सं भ्रा न्ताः
बान्धसु हृज्ज नाः