५.५.२४

करालस्य पिशाचस्य शोणिताक्षस्य चैव हि ।
क्रममाणः क्रमेणैव हनूमान्मारुतात्मजः ॥

पदच्छेदः

करालस्यकराल (६.१)
पिशाचस्यपिशाच (६.१)
शोणिताक्षस्यशोणिताक्ष (६.१)
चैव (अव्ययः)–एव (अव्ययः)
हिहि (अव्ययः)
क्रममाणःक्रममाण (√क्रम् + शानच्, १.१)
क्रमेणैवक्रमेण (अव्ययः)–एव (अव्ययः)
हनूमान्मारुतात्मजःहनुमन्त् (१.१)–मारुतात्मज (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

रास्यपि शास्य
शोणि ता क्षस्य चैहि
क्र मा णःक्र मे णै
नू मा न्मारु तात्म जः