५.५.४२

प्रासादसंघातयुतं स्त्रीरत्नशतसंकुलम् ।
सुव्यूढकक्ष्यं हनुमान्प्रविवेश महागृहम् ॥

पदच्छेदः

प्रासादसंघातयुतंप्रासाद–संघात–युत (२.१)
स्त्रीरत्नशतसंकुलम्स्त्री–रत्न–शत–संकुल (२.१)
सुव्यूढकक्ष्यंसुव्यूढ–कक्ष्या (२.१)
हनुमान्हनुमन्त् (१.१)
प्रविवेशप्रविवेश (√प्र-विश् लिट् प्र.पु. एक.)
महागृहम्महत्–गृह (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

प्रा सा सं घायु तं
स्त्रीत्न संकु लम्
सु व्यू क्ष्यंनु मा
न्प्रवि वे हागृ हम्