५.५१.१६

शङ्खभेरीनिनादैस्तैर्घोषयन्तः स्वकर्मभिः ।
राक्षसाः क्रूरकर्माणश्चारयन्ति स्म तां पुरीम् ॥

अन्वयः

क्रूरकर्मणः cruel in action, राक्षसाः ogres, तम् him, शङ्खभेरीनिनादैश्च by sounding conches and beating drums, स्वकर्मभिः with their actions, घोषयन्तः while announcing, तां पुरीम् that city, चारयन्ति स्म paraded him.

Summary

The cruel demons started blowing conches and beating drums. They paraded him in the city announcing their deeds.

पदच्छेदः

शङ्खभेरीनिनादैस्तैर्शङ्ख–भेरी–निनाद (३.३)–तद् (३.३)
घोषयन्तःघोषयत् (√घोषय् + शतृ, १.३)
स्वकर्मभिःस्व–कर्मन् (३.३)
राक्षसाःराक्षस (१.३)
क्रूरकर्माणश्चारयन्तिक्रूर–कर्मन् (१.३)–चारयन्ति (√चारय् लट् प्र.पु. बहु.)
स्मस्म (अव्ययः)
तांतद् (२.१)
पुरीम्पुरी (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ङ्ख भे रीनि ना दै स्तै
र्घो न्तःस्वर्म भिः
राक्ष साः क्रू र्मा
श्चा न्तिस्म तांपु रीम्