५.५१.६

तस्य तद्वचनं श्रुत्वा राक्षसाः कोपकर्कशाः ।
वेष्टन्ते तस्य लाङ्गूलं जीर्णैः कार्पासिकैः पटैः ॥

अन्वयः

तस्य his, तत् that, वचनम् word, श्रुत्वा having heard, कोपकर्शिताः brutally angry, राक्षसाः demons, जीर्णैः tatters, कार्पासकैः of cotton, पटैः with tatters, लाङ्गूलम् his tail, वेष्टयन्ति स्म wrapped.

M N Dutt

Hearing his words, the Raksasas, cruel through wrath, cover up his (Hanumān's) tail with worn pieces of cotton cloth.

Summary

"Obeying the orders of the king, the brutally angry demons wrapped his tail with tatters of cotton.

पदच्छेदः

तस्यतद् (६.१)
तद्वचनंतद् (२.१)–वचन (२.१)
श्रुत्वाश्रुत्वा (√श्रु + क्त्वा)
राक्षसाःराक्षस (१.३)
कोपकर्कशाःकोप–कर्कश (१.३)
वेष्टन्तेवेष्टन्ते (√वेष्ट् लट् प्र.पु. बहु.)
तस्यतद् (६.१)
लाङ्गूलंलाङ्गूल (२.१)
जीर्णैःजीर्ण (√जृ + क्त, ३.३)
कार्पासिकैःकार्पासिक (३.३)
पटैःपट (३.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्यद्व नं श्रु त्वा
राक्ष साः कोर्क शाः
वे ष्ट न्तेस्य ला ङ्गू लं
जी र्णैः का र्पासि कैः टैः