५.५६.१९

तेन चाहमनुज्ञातो मैनाकेन महात्मना ।
उत्तमं जवमास्थाय शेषमध्वानमास्थितः ॥

पदच्छेदः

तेनतद् (३.१)
चाहम् (अव्ययः)–मद् (१.१)
अनुज्ञातोअनुज्ञात (√अनु-ज्ञा + क्त, १.१)
मैनाकेनमैनाक (३.१)
महात्मनामहात्मन् (३.१)
उत्तमंउत्तम (२.१)
जवम्जव (२.१)
आस्थायआस्थाय (√आ-स्था + ल्यप्)
शेषम्शेष (२.१)
अध्वानम्अध्वन् (२.१)
आस्थितःआस्थित (√आ-स्था + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ते चा नु ज्ञा तो
मै ना के हात्म ना
त्त मं मा स्था
शे ध्वा मास्थि तः