५.५६.५२

राक्षसीभिर्विरूपाभिः क्रूराभिरभिसंवृताम् ।
मांसशोणितभक्ष्याभिर्व्याघ्रीभिर्हरिणीं यथा ॥

पदच्छेदः

राक्षसीभिर्राक्षसी (३.३)
विरूपाभिःविरूप (३.३)
क्रूराभिर्क्रूर (३.३)
अभिसंवृताम्अभिसंवृत (√अभिसम्-वृ + क्त, २.१)
मांसशोणितभक्ष्याभिर्मांस–शोणित–भक्ष्य (३.३)
व्याघ्रीभिर्व्याघ्री (३.३)
हरिणींहरिणी (२.१)
यथायथा (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

राक्ष सी भिर्वि रू पा भिः
क्रू राभिभि संवृ ताम्
मां शोणि क्ष्याभि
र्व्या घ्री भिर्हरि णीं था