५.५७.४

सर्वथातिप्रवृद्धोऽसौ रावणो राक्षसाधिपः ।
यस्य तां स्पृशतो गात्रं तपसा न विनाशितम् ॥

M N Dutt

Rāvana, the lord of the Rākşasas is also highly advanced in asceticism by virtue whereof he has not been ruined albeit he has touched Sītā's person.

पदच्छेदः

सर्वथातिप्रवृद्धोसर्वथा (अव्ययः)–अतिप्रवृद्ध (√अतिप्र-वृध् + क्त, १.१)
ऽसौअदस् (१.१)
रावणोरावण (१.१)
राक्षसाधिपःराक्षस–अधिप (१.१)
यस्ययद् (६.१)
तांतद् (२.१)
स्पृशतोस्पृशत् (√स्पृश् + शतृ, ६.१)
गात्रंगात्र (१.१)
तपसातपस् (३.१)
(अव्ययः)
विनाशितम्विनाशित (√वि-नाशय् + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

र्व था तिप्र वृ द्धो ऽसौ
रा णो राक्ष साधि पः
स्य तांस्पृ तो गा त्रं
सावि नाशि तम्