५.८.६

लोहितेनानुलिप्ताङ्गं चन्दनेन सुगन्धिना ।
संध्यारक्तमिवाकाशे तोयदं सतडिद्गुणम् ॥

पदच्छेदः

लोहितेनानुलिप्ताङ्गंलोहित (३.१)–अनुलिप्त (√अनु-लिप् + क्त)–अङ्ग (२.१)
चन्दनेनचन्दन (३.१)
सुगन्धिनासुगन्धि (३.१)
संध्यारक्तम्संध्या–रक्त (२.१)
इवाकाशेइव (अव्ययः)–आकाश (७.१)
तोयदंतोयद (२.१)
सतडिद्गुणम्सतडिद्गुण (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

लोहि ते नानु लि प्ता ङ्गं
न्द नेसुन्धि ना
सं ध्याक्तमि वा का शे
तो दं डिद्गु णम्