६.१०१.२८

एवंप्रकारैर्बहुभिर्विप्रकारैर्यशस्विनि ।
हन्तुमिच्छाम्यहं देवि तवेमाः कृतकिल्बिषाः ॥

पदच्छेदः

एवंप्रकारैर्एवंप्रकार (३.३)
बहुभिर्बहु (३.३)
विप्रकारैर्विप्रकार (३.३)
यशस्विनियशस्विन् (८.१)
हन्तुम्हन्तुम् (√हन् + तुमुन्)
इच्छाम्यहंइच्छामि (√इष् लट् उ.पु. )–मद् (१.१)
देविदेवी (८.१)
तवेमाःत्वद् (६.१)–इदम् (२.३)
कृतकिल्बिषाःकृत (√कृ + क्त)–किल्बिष (२.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

वंप्र का रैर्बहुभि
र्विप्र का रैर्यस्विनि
न्तु मि च्छाम्य हं देवि
वे माःकृ किल्बि षाः