६.१०१.३०

राजसंश्रयवश्यानां कुर्वतीनां पराज्ञया ।
विधेयानां च दासीनां कः कुप्येद्वानरोत्तम ॥

अन्वयः

वानरोत्तम foremost of Vanaras, राजसंश्रयवश्यानाम् being under the service of the king, पराज्ञया others command, कुर्वतीनाम् did as per his orders, विधेयानाम् obedient to, दासीनाम् maids, कः who, कुप्येत् will be angry

Summary

"Foremost of Vanaras! Who will be angry? Being under the command of the king and being obedient maids, they did so according to king's order.

पदच्छेदः

राजसंश्रयवश्यानांराजन्–संश्रय–वश्या (६.३)
कुर्वतीनांकुर्वत् (√कृ + शतृ, ६.३)
पराज्ञयापर–आज्ञा (३.१)
विधेयानांविधेय (√वि-धा + कृत्, ६.३)
(अव्ययः)
दासीनांदासी (६.३)
कः (१.१)
कुप्येद्कुप्येत् (√कुप् विधिलिङ् प्र.पु. एक.)
वानरोत्तमवानर–उत्तम (८.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

रा संश्र श्या नां
कुर्व ती नां राज्ञ या
वि धे या नां दा सी नां
कः कु प्ये द्वा रोत्त