६.१०१.६

पृष्ट्वा च कुशलं रामो वीरस्त्वां रघुनन्दनः ।
अब्रवीत्परमप्रीतः कृतार्थेनान्तरात्मना ॥

पदच्छेदः

पृष्ट्वापृष्ट्वा (√प्रच्छ् + क्त्वा)
(अव्ययः)
कुशलंकुशल (२.१)
रामोराम (१.१)
वीरस्त्वांवीर (१.१)–त्वद् (२.१)
रघुनन्दनःरघुनन्दन (१.१)
अब्रवीत्अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)
परमप्रीतःपरम–प्रीत (√प्री + क्त, १.१)
कृतार्थेनान्तरात्मनाकृतार्थ (३.१)–अन्तरात्मन् (३.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

पृ ष्ट्वाकु लं रा मो
वी स्त्वांघुन्द नः
ब्र वीत्प प्री तः
कृ ता र्थे नान्त रात्म ना