६.१०५.२

षडर्धनयनः श्रीमान्महादेवो वृषध्वजः ।
कर्ता सर्वस्य लोकस्य ब्रह्मा ब्रह्मविदां वरः ॥

पदच्छेदः

षडर्धनयनःषष्–अर्ध–नयन (१.१)
श्रीमान्महादेवोश्रीमत् (१.१)–महादेव (१.१)
वृषध्वजःवृषध्वज (१.१)
कर्ताकर्तृ (१.१)
सर्वस्यसर्व (६.१)
लोकस्यलोक (६.१)
ब्रह्माब्रह्मन् (१.१)
ब्रह्मविदांब्रह्मन्–विद् (६.३)
वरःवर (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

र्ध नः श्री मा
न्म हा दे वोवृध्व जः
र्ता र्वस्य लोस्य
ब्र ह्मा ब्रह्मवि दां रः