६.१०५.२५

महेन्द्रश्च कृतो राजा बलिं बद्ध्वा महासुरम् ।
सीता लक्ष्मीर्भवान्विष्णुर्देवः कृष्णः प्रजापतिः ॥

पदच्छेदः

महेन्द्रश्चमहत्–इन्द्र (१.१)–च (अव्ययः)
कृतोकृत (√कृ + क्त, १.१)
राजाराजन् (१.१)
बलिंबलि (२.१)
बद्ध्वाबद्ध्वा (√बन्ध् + क्त्वा)
महासुरम्महत्–असुर (२.१)
सीतासीता (१.१)
लक्ष्मीर्लक्ष्मी (१.१)
भवान्भवत् (१.१)
विष्णुर्विष्णु (१.१)
देवःदेव (१.१)
कृष्णःकृष्ण (१.१)
प्रजापतिःप्रजापति (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

हे न्द्रश्चकृ तो रा जा
लिं द्ध्वा हासु रम्
सी ता क्ष्मीर्भ वा न्विष्णु
र्दे वः कृ ष्णःप्र जा तिः