६.१०९.२३

पाण्डुराभिः पताकाभिर्ध्वजैश्च समलंकृतम् ।
शोभितं काञ्चनैर्हर्म्यैर्हेमपद्मविभूषितम् ॥

पदच्छेदः

पाण्डुराभिःपाण्डुर (३.३)
पताकाभिर्पताका (३.३)
ध्वजैश्चध्वज (३.३)–च (अव्ययः)
समलंकृतम्समलंकृत (√समलं-कृ + क्त, २.१)
शोभितंशोभित (√शोभय् + क्त, २.१)
काञ्चनैर्काञ्चन (३.३)
हर्म्यैर्हर्म्य (३.३)
हेमपद्मविभूषितम्हेमन्–पद्म–विभूषित (√वि-भूषय् + क्त, २.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

पाण्डु रा भिः ता काभि
र्ध्व जैश्च लंकृ तम्
शोभि तं काञ्च नै र्ह र्म्यै
र्हेद्मवि भूषि तम्